|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.71. अध्यायः 071
Mahabharata - Karna Parva - Chapter Topics
कर्णस्यामारणज्ञानाद्रुष्टेन युधिष्ठिरेण अर्जुनम्प्रति गर्हणपूर्वकं कृष्णकरे गाण्डीवदानचोदना॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-73-0x(5004)(58432)
वैकर्तनं कुशलिनं निशम्य
क्रुद्धः पार्थः फल्गूनस्यामितौजाः।
धनञ्जयं वाक्यमुवाच राजा
युधिष्ठिरः कर्णशराभितप्तः॥ 8-73-1(58433)
इमां च वसतिं हित्वा भयात्कर्णेन फल्गुन।
अहं च भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ॥ 8-73-2(58434)
वासुदेवेन सहिता वयं कर्णेन निर्जिताः।
पुनरेव वनं गत्वा तपश्चर्यां च कुर्महे।
अथवा धार्तराष्ट्राणां परिचर्यां चरामहे॥ 8-73-3(58435)
इत्येवमुक्त्वा बीभत्सुं रोषात्संरक्तलोचनः।
अब्रवीत्पुनरेवात्र धर्मराजो युधिष्ठिरः॥ 8-73-4(58436)
इदं यदि द्वैतवने तु सूक्तं
कर्णं नियोद्धुं न सहे नृपेति।
वयं ततः प्राप्तकालं यथाव--
त्कृत्वाऽभ्युपेक्षाम तथैव राज्यम्॥ 8-73-5(58437)
मयि प्रतिश्रुत्य वधं हि तस्य
बलस्य चार्धस्य तथैव युद्धे।
आनीय मां शत्रुमध्ये स कस्मा--
त्समुन्नाम्य स्थण्डिले प्रत्यपिंष्ठाः॥ 8-73-6(58438)
अन्वास्य सत्येन यदात्थ पार्थ
सत्यं शपन्वासुदेवेन सार्धम्।
तन्नः सत्यमफलं ह्यकार्षीः
फलस्य काले चाच्छिन्नः पुष्पवृक्षम्॥ 8-73-7(58439)
प्रच्छादितस्त्वं बालिश दुर्यशोभि--
रनर्थवाक्योऽस्यर्जुन नैव साधुः।
त्यक्त्वा भीमं सर्वभीमेषु भीमं
संयोजितस्त्वं सूतपुत्रं निहन्तुम्॥ 8-73-8(58440)
यत्तद्वृथा वागुवाचान्तरिक्षे
सप्ताह्नि जाते त्वयि मन्दबुद्धौ।
अपापीयान्वासवात्कुन्तिजातो
बहून्सङ्ग्रामानयमेव जेता॥ 8-73-9(58441)
अयं जेता पाण्डवो देवसङ्घान्
सर्वाणि भूतान्यपि चोत्तमौजाः।
अयं जेता मद्रकलिङ्गजाता--
न्दैत्यांश्च रक्षांसि समागतानि॥ 8-73-10(58442)
भूमिं च सर्वां निखिलेन जेता
कुरूंश्च जेता स्वगणांश्च जेता।
अस्मात्परो नो भविता धनुर्धरो
नैष्यन्न भूतः कश्चिदेनं विजेता॥ 8-73-11(58443)
इच्छन्नयं सर्वभूतानि कुर्या--
द्वशी वशे सर्वसमाप्तविद्यः।
कान्त्या शशाङ्कस्य जवेन वायोः
स्यैर्येण मेरोः क्षमया पृथिव्याः॥ 8-73-12(58444)
अग्नेश्च तापे धनदस्य लक्ष्म्या
शौर्येण शक्रस्य जयेन विष्णोः।
तुल्यो महात्मा तव कुन्ति पुत्रो
जातोऽदितेर्विष्णुरिवामितौजाः॥ 8-73-13(58445)
स्वेषां जयाय द्विषतां वधाय
जातो महात्मा तव नन्दिकर्ता।
इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि
तपस्विनां शृण्वतां वागुवाच॥ 8-73-14(58446)
एवंविधस्त्वं न च भूतस्तथाद्य
देवाश्च नूनमनृतं वदन्ति॥ 8-73-15(58447)
तथा परेषामृषिसत्तमानां
श्रुत्वा गिरः पूजयतां सदा त्वाम्।
न सन्नतिं यामि सुयोधनस्य
न त्वां जानाम्याधिरथेर्भयार्तम्॥ 8-73-16(58448)
त्वष्ट्रा कृतं वाहमकूजनाक्षं
शुभं समास्थाय कपिध्वजं तम्।
खङ्गं गृहीत्वा हेमचित्रावनद्वं
धनुर्वरं गाण्डिवं तालमात्रम्।
त्वं वासुदेवेनोह्यमानः कथं नु
कर्णाद्भीतो व्यपयातोऽसि पार्थ॥ 8-73-17(58449)
पूर्वं यदुक्तं हि सुयोधनेन
न फल्गुनः प्रमुखे स्थास्यतीति।
कर्णस्य युद्धे हि महाबलस्य
मौर्ख्यात्तु तन्नावबुद्धं मयाऽसीत्॥ 8-73-18(58450)
तेनाद्य तप्स्ये भृशमप्रमेयं
यन्मित्रवर्गो नरकं प्रविष्टः।
तदैव वाच्योऽस्मि ननु त्वयाऽहं
न योत्स्येऽहं सूतपुत्रं कथञ्चित्॥ 8-73-19(58451)
ततो नाहं सृञ्जयान्केकयांश्च
समानयेयं सुहृदो रणाय॥ 8-73-20(58452)
एवं गते किं च मयाऽद्य शक्यं
कार्यं कर्तुं निग्रहे सूतजस्य।
तथैव राज्ञश्च सुयोधनस्य
ये वापि मां योद्धुकामाः समेताः॥ 8-73-21(58453)
धिगस्तु मज्जीवितमद्य कृष्ण
योऽहं वशं सूतपुत्रस्य यातः।
मध्ये कुरूणां समुयोधनानां
ये चाप्यन्ये योद्धुकामाः समेताः॥ 8-73-22(58454)
एकः स मे भीमसेनोऽद्यं नाथो
येनाभिपन्नोऽस्मि रणे महाभये।
विमोच्य मां चापि रुपान्वितस्ततः
शरेण तीक्ष्णेन बिभेद कर्णम्॥ 8-73-23(58455)
त्यक्त्वा प्राणान्समरे भीमसेन--
श्चक्रे युद्धं कुरुमुख्यैः समेतैः।
गदाग्रहस्तो रुधिरोक्षिताङ्ग--
श्चरन्रणे काल इवान्तकाले॥ 8-73-24(58456)
असौ हि भीमस्य महानिनादो
मुहुर्महुः श्रूयते धार्तराष्ट्रैः।
यदि स्म जीवेत्समरे निहन्ता
महारथानां प्रवरो नरोत्तमः॥ 8-73-25(58457)
तवाभिमन्युस्तनयोऽद्य पार्थ
न चास्मि गन्ता समरे पराभवम्।
अथापि जीवेत्समरे घटोत्कच--
स्तथाऽपि नाहं समरे पराङ्युखः॥ 8-73-26(58458)
भीमस्य पुत्रः समराग्रयायी
महास्त्रविन्नापि तवानुरूपः।
यं तं xxxसाद्य रिपोर्वलं नो
निमीलिताक्षं भयविप्लुतं भवेत्॥ 8-73-27(58459)
xxxxxनिशि युद्धमेक--
स्त्यक्सा रणं यत्व भयाद्रवन्ते॥ 8-73-28(58460)
स चेत्समासाद्य महानुभावः
कर्णं रणे बाणगणैः प्रमोह्यः।
धैर्ये स्थितेनापि च सूतजेन
शक्या हतो वासवदत्तया तया॥ 8-73-29(58461)
ममैव भाग्यानि पुरा कृतानि
पापानि नूनं फलवन्ति युद्धे।
तृणं च कृत्वा समरे भवन्तं
ततोऽहमेवं निकृतो दुरात्मना।
वैकर्तनेनैव तथा कृतोऽहं
यथा ह्यशक्तः क्रियते त्वबान्धवः॥ 8-73-30(58462)
आपद्ग्रतं यश्च नरो विमोक्षये--
त्स बान्धवः स्नेहयुतः सुहृच्च।
एवं पुराणा ऋषयो वदन्ति
धर्मः सदा सद्भिरनुष्ठितश्च॥ 8-73-31(58463)
खङ्गं विभ्रज्जातरूपत्सरुं च
धनुर्वेदं गाण्डिवं तालमात्रम्।
स केशवेनोह्यमानः कथं नु
कर्णात्पार्थस्त्वमपैतुं समैषीः॥ 8-73-32(58464)
स गाण्डीवं केशवाय प्रदाय
यन्ता भवेस्त्वं यदि केशवस्य।
ततस्तरेत्केशवः कर्णमुग्रं
मरुत्सस्वो वृत्रमिवात्तवज्रः॥ 8-73-33(58465)
मासेऽपतिष्यो यदि पञ्चमे त्वं
न वा गर्भो यद्यभवः पृथायाः।
मत्तः श्रेयान्राजपुत्रोऽभविष्य--
न्न ते यशः फल्गुन इत्यपेयात्॥ ॥ 8-73-34(58466)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकसप्ततितमोऽध्यायः॥ 71 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|